वांछित मन्त्र चुनें

यु॒वं दे॑वा॒ क्रतु॑ना पू॒र्व्येण॑ यु॒क्ता रथे॑न तवि॒षं य॑जत्रा । आग॑च्छतं नासत्या॒ शची॑भिरि॒दं तृ॒तीयं॒ सव॑नं पिबाथः ॥

अंग्रेज़ी लिप्यंतरण

yuvaṁ devā kratunā pūrvyeṇa yuktā rathena taviṣaṁ yajatrā | āgacchataṁ nāsatyā śacībhir idaṁ tṛtīyaṁ savanam pibāthaḥ ||

पद पाठ

यु॒वम् । दे॒वा॒ । क्रतु॑ना । पू॒र्व्येण॑ । यु॒क्ताः । रथे॑न । त॒वि॒षम् । य॒ज॒त्रा॒ । आ । अ॒ग॒च्छ॒त॒म् । ना॒स॒त्या॒ । शची॑भिः । इ॒दम् । तृ॒तीय॑म् । सव॑नम् । पि॒बा॒थः॒ ॥ ८.५७.१

ऋग्वेद » मण्डल:8» सूक्त:57» मन्त्र:1 | अष्टक:6» अध्याय:4» वर्ग:28» मन्त्र:1 | मण्डल:8» अनुवाक:6» मन्त्र:1